|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.202. अध्यायः 202
Mahabharata - Drona Parva - Chapter Topics
नारायणास्त्रे विफलीकृते पुनरश्वत्थाम्नाऽऽग्नेयास्त्रप्रयोगः॥ 1 ॥ तस्यापि पार्थेन व्यर्थीकरणे दूयमानेन द्रौणिना शस्त्रन्यासपूर्वकं रणाङ्कणान्निर्गमनम्॥ 2 ॥ निर्गच्छता च तेन यदृच्छासमागतं व्यासं प्रति निजास्त्रवैफल्यकारणप्रश्नः॥ 3 ॥ व्यासेन कृष्णार्जुनयोर्नरनारायणात्मकत्वे कथिते प्रतिनिवृत्तेन द्रौणिना सेनावहारः॥ 4 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-202-0x(4800)(54608)
तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः।
न्यवारयदमेयात्मा द्रोणपुत्रजयेप्सया॥ 7-202-1(54609)
ततस्ते सैनिका राजन्सर्वे तत्रावतस्थिरे।
संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च॥ 7-202-2(54610)
एक एव च बीभत्सुः सोमकावयवैः सह।
मात्स्यैरन्यैश्च संधाय कौरवान्सन्न्यवर्तत॥ 7-202-3(54611)
ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम्।
सव्यसाची महेष्वासमश्वत्थामानमब्रवीत्॥ 7-202-4(54612)
य शक्तिर्यच्च विज्ञानं यद्वीर्यं यच्च पौरुषम्।
धार्तराष्ट्रेषु या प्रीतिर्देषोऽस्मासु च यच्च ते॥ 7-202-5(54613)
यच्च भूयोऽस्ति तेजस्ते तत्सर्वं मयि दर्शय।
स एव द्रोणहन्ता ते दर्पं छेत्स्यति पार्षतः॥ 7-202-6(54614)
कालानलसमप्रख्यं द्विषामन्तकोपमम्।
समासादय पाञ्चाल्यं मां चापि सहकेशवम्।
दर्पं नाशयितास्म्यद्य तवोद्वृत्तस्य संयुगे॥ 7-202-7(54615)
धृतराष्ट्र उवाच। 7-202-8x(4801)
आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय।
प्रीतिर्धनञ्जये चास्य प्रियश्चापि महात्मनः॥ 7-202-8(54616)
न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम्॥
अथ कस्मात्स कौन्तेयः सखायं रूक्षमुक्तवान्॥ 7-202-9(54617)
सञ्जय उवाच। 7-202-10x(4802)
युवराजे हते चैव वृद्वक्षत्रे च पौरवे।
इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने॥ 7-202-10(54618)
धृष्टद्युम्ने सात्यकौ च भीमे चापि पारजिते।
युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते। 7-202-11(54619)
अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो।
अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत॥ 7-202-12(54620)
तस्मादनर्हमश्लीलमप्रियं द्रोणिमुक्तवान्।
मान्यमाचार्यतनयं रूक्षं कापुरुषं यथा॥ 7-202-13(54621)
एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप।
पार्थेन परुषं वाक्यं सर्वमर्मभिदा गिरा॥ 7-202-14(54622)
द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः।
स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान्॥ 7-202-15(54623)
देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे।
दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः॥ 7-202-16(54624)
सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम्।
सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा॥ 7-202-17(54625)
ततस्तुमुलमाकाशे शरवर्षमजायत।
पावकार्चिपरीतं तत्पार्थमेवाभिपुप्लुवे॥ 7-202-18(54626)
उल्काश्च गगनात्पेतुर्दिशश्च न चकाशिरे।
तमश्च सहसा रौद्रं चमूमवततार ताम्॥ 7-202-19(54627)
रक्षांसि च पिशाचाश्च विनेदुरतिसङ्गताः।
ववुश्चाशिशिरा वाताः सूर्यो नैव तताप च॥ 7-202-20(54628)
वायसाश्चापि चाक्रन्दन्दिक्षु सर्वासु भैरवम्।
रुधिरं चापि वर्षन्तो निनेदुस्तोयदा दिवि॥ 7-202-21(54629)
पक्षिणः पशवो गावो विनेदुश्चापि सुव्रताः।
परमं प्रयतात्मानो न शान्तिमुपलेभिरे॥ 7-202-22(54630)
भ्रान्तसर्वमहाभूतमावर्तितदिवाकरम्।
त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवाभवत्॥ 7-202-23(54631)
अस्त्रतेजोभिसन्तप्ता नागा भूमिशयास्तथा।
निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः॥ 7-202-24(54632)
जलजानि च सत्वानि दह्यमानानि भारत।
न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः॥ 7-202-25(54633)
दिग्भ्यः प्रदिग्भ्यः खाद्भूमेः सर्वतः शरवृष्टयः।
उच्चावचा निपेतुर्वै गरुडानिलरंहसः॥ 7-202-26(54634)
तैः शरैर्द्रोणपुत्रस्य वज्रवेगैः समाहताः।
प्रदग्धा रिपवः पेतुरग्निदग्धा इव द्रुमाः॥ 7-202-27(54635)
दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः।
नदन्तो भैरवान्नादाञ्चलदोपमनिस्वनान्॥ 7-202-28(54636)
अपरे प्रद्रुता नागा भयत्रस्ता विशाम्पते।
त्रेसुर्दिशो यथा पूर्वं वने दावाग्निसंवृताः॥ 7-202-29(54637)
द्रुमाणां शिखराणीव दावदग्धानि मारिष।
अश्वबृन्दान्यदृश्यन्त रथबृन्दानि भारत।
अपतन्त रथौघाश्च तत्रतत्र सहस्रशः॥ 7-202-30(54638)
तत्सैन्यं भयसंविग्नं ददाह युधि भारत।
युगान्ते सर्वभूतानि संवर्तक इवानलः॥ 7-202-31(54639)
दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे।
प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे॥ 7-202-32(54640)
ततस्तूर्यसहस्राणि नानालिङ्गानि भारत।
तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः॥ 7-202-33(54641)
कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः।
तमसा संवृते लोके नादृश्यन्त महाहवे॥ 7-202-34(54642)
नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम्।
यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा॥ 7-202-35(54643)
अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत्।
सर्वास्त्रप्रतिघातार्थं विहितं पद्मयोनिना॥ 7-202-36(54644)
ततो मुहूर्तादिव तत्तमो व्युपशशाम ह।
प्रववौ चानिलः शीतो दिशश्च विमला बभुः॥ 7-202-37(54645)
तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम्।
अनभिज्ञेयरूपां च प्रदग्धामस्त्रतेजसा॥ 7-202-38(54646)
ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ।
सहितौ प्रत्यदृश्येतां नभसीव तमोनुदौ।
ततो गण्डीवधनन्वा च केशवश्चाक्षतावुभौ॥ 7-202-39(54647)
सपताकध्वजहयः सानुकर्षवरायुधः।
प्रबभौ सरथो युक्तस्तावकानां भयङ्करः॥ 7-202-40(54648)
ततः किलकिलाशब्दः शङ्खभेरीस्वनैः सह।
पाण्डवानां प्रहृष्टानां क्षणेन समजायत॥ 7-202-41(54649)
हताविति तयोरासीत्सेनयोरुभयोर्मतिः।
तरसाऽभ्यागतौ दृष्ट्वा सहितौ कैशवार्जुनौ॥ 7-202-42(54650)
तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ।
दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताऽभवन्॥ 7-202-43(54651)
विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः।
मुहूर्तं चिन्तयामास किन्त्वेतदिति मारिष॥ 7-202-44(54652)
चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः।
निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्ततः॥ 7-202-45(54653)
सञ्जय उवाच। 7-202-46x(4803)
ततो द्रौणिर्धनुस्त्यक्त्वा रथात्प्रस्कन्द्य वेगितः।
धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात्॥ 7-202-46(54654)
ततः स्निग्धाम्बुदाभासं वेदावासमकल्मषम्।
वेदव्यासं सरस्वत्यावासं व्यासं ददर्श ह॥ 7-202-47(54655)
तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वहम्।
सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत्॥ 7-202-48(54656)
भोभो माया यदृच्छा वा दैवं वा किमिदं भवेत्।
अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः॥ 7-202-49(54657)
अधरोत्तरमेतद्वा लोकानां वा पराभवः।
यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः॥ 7-202-50(54658)
नासुरा न च गन्धर्वा न पिशाचा न राक्षसाः।
न सर्पा यक्षपतगा न मनुष्याः कथञ्चन॥ 7-202-51(54659)
उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम्।
तदिदं केवलं हत्वा शान्तमक्षौहिणीं ज्वलत्॥ 7-202-52(54660)
सर्वघानि मया मुक्तमस्त्रं परमदारुणम्।
केनेमौ मर्त्यधर्माणौ नाधाक्षीत्केशवार्जुनौ॥ 7-202-53(54661)
एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम्।
श्रोतुमिच्छामि तत्त्वेन सर्वमेतन्महामुने॥ 7-202-54(54662)
व्यास उवाच। 7-202-55x(4804)
महान्तमेवमर्थं मां यं त्वं पृच्छसि विस्मयात्।
तं प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु॥ 7-202-55(54663)
योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः।
`आदिदेवो जगन्नाथो लोककर्ता स्वयं प्रभुः॥ 7-202-56(54664)
आद्यः सर्वस्य लोकस्य अनादिनिधनोऽच्युतः।
व्याकुर्वते यस्य तत्त्वं श्रुतयो मुनयश्च ह॥ 7-202-57(54665)
अतोऽजय्यः सर्वभूतैर्मनसाऽपि जगत्पतिः।
तस्मादिमं जेतुकाम अज्ञानतमसा वृतः॥ 7-202-58(54666)
मा शुचः पुरुषव्याघ्र विद्वि तद्वदिहार्जुनम्।
तस्य शक्तिरसौ पार्थास्तस्माच्छोकमिमं त्यज॥ 7-202-59(54667)
विश्वेश्वरोऽयं लोकादिः परमात्मा ह्यधोक्षजः।
सहस्रसंहितादंशादेकांशोऽयमजायत॥ 7-202-60(54668)
देवानां हितकामार्थं लोकानां चैव सत्तमः'।
अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत्॥ 7-202-61(54669)
स तपस्तीव्रमातस्थे शिशिरं गिरिमास्थितः।
ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसन्निभः॥ 7-202-62(54670)
षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च।
अशोषयत्तदाऽऽत्मानं वायुभक्षोऽम्बुजेक्षणः॥ 7-202-63(54671)
अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत्।
द्यावापृथिव्योर्विवरं तेजसा समपूरयत्॥ 7-202-64(54672)
स तेन तपसा तात ब्रह्मभूतो यदाऽभवत्।
ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम्।
ददर्श भृशदुर्धर्षं सर्वदेवैरभिष्टुतम्॥ 7-202-65(54673)
अणीयांसमणुभ्यश्च बृहद्भ्यश्च बृहत्तमम्।
रुद्रमीशानवृषभं हरं शंभुं कपर्दिनम्॥ 7-202-66(54674)
चेकितानं परां योनिं तिष्ठतो गच्छतश्च ह।
दुर्वारणं सुदुर्धर्षं दुर्निरीक्ष्यं दुरासदम्।
अतिमन्युं महात्मानं सर्वभूतप्रचेतसम्॥ 7-202-67(54675)
दिव्यं चापमिषुधी चाददानं
हिरण्यवर्माणमनन्तवीर्यम्।
पिनाकिनं वज्रिणं दीप्तशूलं
परश्वथिं गदिनं चायतासिम्॥ 7-202-68(54676)
बभ्रूजटामण्डलचन्द्रमौलिं
व्याघ्राजिनं परिघिणं दण्डपाणिम्।
शुभाङ्गदं नागयज्ञोपवीतं
विश्वैर्गणैः शोभितं भूतसङ्घैः।
एकीभूतं तपसां सन्निधानं
वचोधिकैः सुष्टुतमिष्टवाग्भिः॥ 7-202-69(54677)
जलं दिशं खं क्षितिं चन्द्रसूर्यौ
हुताशवायुप्रतिमं सुरेशम्।
नालं द्रष्टुं यं जना भिन्नवृत्ता
ब्रह्मद्विषघ्नममृतस्य योनिम्॥ 7-202-70(54678)
यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः
क्षीणे पापे मनसा वीतशोकाः।
तन्निष्ठात्मा तपसा धर्ममीड्यं
तद्भक्त्या वै विश्वरूपं ददर्श॥ 7-202-71(54679)
दृष्ट्वा चैनं वाड्मनोबुद्धिदेहैः
संहृष्टात्मा मुमुदे वासुदेवः॥ 7-202-72(54680)
अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम्।
रुद्रं नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम्॥ 7-202-73(54681)
वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम्।
क्रीडमानं महात्मानं भूतसङ्घगणैर्वृतम्॥ 7-202-74(54682)
अजमीशानमव्यक्तं कारणात्मानमच्युतम्।
अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने।
पद्माक्षस्तं विरुपाक्षमभितुष्टाव भक्तिमान्॥ 7-202-75(54683)
श्रीनारायण उवाच। 7-202-76x(4805)
त्वत्सम्भूता भूतकृतो वरेण्य
गोसारोऽस्य भुवनस्यादिदेव।
आविश्येमां धरणीं येऽभ्यरक्षन्
पुरा पुराणीं तव देव सृष्टिम्॥
सुरासुरान्नागरक्षःपिशाचा--
न्नरान्सुपर्णानथ गन्धर्वयक्षान्। 7-202-76(54684)
पृथग्विधान्भूतसङ्घांश्च विश्वां--
स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव॥ 7-202-77(54685)
ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं
पैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम्॥ 7-202-78(54686)
रूपं ज्योतिः शब्द आकाशवायुः
स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी।
कालो ब्रह्मा ब्रह्म च ब्राह्मणाश्च
त्वत्सम्भूताः स्थास्नु चरिष्णु चेदम्॥ 7-202-79(54687)
अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं
ताथिश्चैक्यं संक्षये यान्ति भूयः।
एवं विद्वान्प्रभवं चाप्ययं च
त्वसम्भूतं तव सायुज्यमेति॥ 7-202-80(54688)
दिव्यामृतौ मानसौ द्वौ सुपर्णा--
ववाक्शाखः पिप्पलः सप्तगोप्तः।
वाचश्चार्था देवताः लोकपाला
लोकानन्ये ये पुरा धारयित्वा।
गता हि तेभ्यः परमं तत्परं च
त्वत्सम्भूतास्ते च तेभ्यः परस्त्वम्॥ 7-202-81(54689)
भूतं भव्यं भविता चाप्रधृष्यं
त्वत्सम्भूता भुवनानीह विश्वा।
भक्तं च मां भजमानं भजस्व
प्रीत्या मां वै लोकपितामहेश॥ 7-202-82(54690)
आत्मानं त्वमात्मनो न व्यबोधं
विद्वानेवं गच्छि ब्रह्म शुक्रम्।
अस्तौषं त्वां तव संमानमिच्छ--
निचिन्वन्वै सदृशं देववर्य।
सुदुर्लभान्देहि परान्ममेष्टा--
नभिष्टुतः प्रविकार्षीश्च मायाम्॥ 7-202-83(54691)
व्यास उवाच। 7-202-84x(4806)
तस्मै वरानचिन्त्यात्मा देवदेवः पिनाकधृत्।
विष्णवे देवमुख्याय प्रायच्छदृषिसंस्तुतः॥ 7-202-84(54692)
श्रीभगवानुवाच। 7-202-85x(4807)
मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु।
अप्रमेयबलात्मा त्वं नारायण भविष्यसि॥ 7-202-85(54693)
न च त्वां प्रसहिष्यन्ति देवासुरमहोरगाः।
न पिशाचा न गन्धर्वा न यक्षा न च राक्षसाः॥ 7-202-86(54694)
न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः।
न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति॥ 7-202-87(54695)
न शस्त्रेण न वज्रेण नाग्निना न च वारिणा।
न चार्द्रेण न शुष्केण त्रसेन स्थावरेण च॥ 7-202-88(54696)
न हस्तेन न पादेन न काष्ठेन न लोष्टुना।
कश्चित्तव रुजां कर्ता मत्प्रसादात्कथञ्चन।
अपि वै समरं गत्वा भविष्यसि ममाधिकः॥ 7-202-89(54697)
एवमादीन्वराँल्लब्ध्वा प्रसादादथ शूलिनः।
स एष देवश्चरति मायया मोहयञ्जगत्॥ 7-202-90(54698)
तस्यैव तपसा जातो नरो नाम महामुनिः।
तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा॥ 7-202-91(54699)
तावेतौ पूर्वदेवानां परमोपचितादृषी।
लोकयात्राविधानार्थं दानवानां वधाय च।
धर्मसंस्थापनार्थाय सञ्जायेते युगेयुगे॥ 7-202-92(54700)
तथैव कर्मणा कृत्स्नं महतस्तपरसोऽपि च।
तेजो वाग्भिश्च विद्वंस्त्वं जातो रुद्रान्महामते॥ 7-202-93(54701)
स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत्।
अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया॥ 7-202-94(54702)
शुभ्रमत्र हविः कृत्वा महापुरुषविग्रहम्।
ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद॥ 7-202-95(54703)
स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत्।
पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान्॥ 7-202-96(54704)
जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः।
ताभ्यां लिङ्गेऽर्चितो देवस्त्वयाऽर्चायां युगेयुगे।
देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुसम्भवः॥ 7-202-97(54705)
सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम्।
आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः॥ 7-202-98(54706)
एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः।
प्रार्थयन्ते परं लोके स्थाणुमेव च शाश्वतम्॥ 7-202-99(54707)
[स एष* रुद्रभक्तश्च केशवो रुद्रसम्भवः।]
कृष्ण एव हि यष्टव्यो यज्ञैश्चैव सनातनः॥ 7-202-100(54708)
सर्वभूतभवं ज्ञात्वा लिङ्गमर्चति यः प्रभोः।
तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः॥ 7-202-101(54709)
सञ्जय उवाच। 7-202-102x(4808)
तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः।
नमश्चकार रुद्राय बहुमेने च केशवम्॥ 7-202-102(54710)
हष्टरोमा च वश्यात्मा सोऽभिवाद्य महर्षये।
वरूथिनीमभिप्रेक्ष्य ह्यवहारमकारयत्॥ 7-202-103(54711)
ततः प्रत्यवहारोऽभूत्पाण्डवानां विशाम्पते।
कौरवाणां च दीनानां द्रोणे युधि निपातिते॥ 7-202-104(54712)
युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम्।
ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः॥ ॥ 7-202-105(54713)
इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे द्व्यधिकद्विशततमोऽध्यायः॥ 202 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-202-2 राजन्नैव तत्रावतस्थिरे इति ट. पाठः॥ 5-202-3 सोमकावयवैः सोमकानामवयवरूपैर्माण्डलिकैः॥ 5-202-7 उद्वृत्तस्य उच्छास्त्रवर्तिनः॥ 5-202-10 युवराजे चेदिपतौ॥ 5-202-12 अन्तर्भेदे हृदयवैक्लव्ये। दुःखं पुत्रवधादिजम्॥ 5-202-13 अश्लीलं जुगुप्सितम्। अप्रियं परुषम्॥ 5-202-21 क्रव्यादाश्चापि चाक्रन्दन् इति ट.पाठः॥ 5-202-22 प्रयतात्मानो योगिनोऽपि समाधिच्युता बभूवुरित्यर्थः॥ 5-202-23 आवर्तितदिवाकरं विश्वं सर्वं भ्रमतीवेत्यमन्यतेत्यर्थः॥ 5-202-24 त्रेसुः शब्दं चक्रुः। यथा वने इति सम्बन्धः॥ 5-202-29 युगान्ते प्रलये। संवर्तकः संहारकः॥ 5-202-31 तमोनुदौ चन्द्रसूर्यौ॥ 5-202-39 तयोर्विषये॥ 5-202-42 वेदानां व्यासं शाखाप्रशाखाभेदेन विभाजकम्। सरस्वत्या अग्नोपवेदस्मृत्यादिरूपायां आवासम्। व्यासमिति पाठे विस्तारम्। आवासं च सरस्वत्याः स वै व्यास ददर्शह इति क.ग.ट.पाठः॥ 5-202-47 कुरवो धृतराष्ट्राद्यास्तेषां कुलोद्वहम्॥ 5-202-48 माया नष्टयोरप्यनष्टत्वेन दर्शनम्। यदृच्छा अस्त्रशक्तोरनियमः॥ 5-202-49 अधरोत्तरं विपरीतम्॥ 5-202-50 शिशिरं गिरिं हिमाचलम्॥ 5-202-62 योगी विश्वस्येति क.ख.ग.पाठः। पतिं पालयितारम्॥ 5-202-65 ईशानानां ब्रह्मादीनामपि वृषभं श्रेष्ठम्। कपर्दिनं जटाजूटवन्तम्॥ 5-202-66 चेकितानं चेतयतम्। तिष्ठतः 5-202-67 स्थावरस्या। गच्छतो जङ्गमस्य। दुर्वारणं दुर्निषेधम्। अतिमन्युं तीव्रकोपं दुष्टेषु॥ 5-202-68 परश्वथिं परश्वथवन्तम्॥ 5-202-76 भूतकृतः प्रजापतयः॥ 5-202-78 एन्द्रं इन्द्रदैवत्यं कर्म तुभ्यं त्वदर्थमेव। सर्वेषां देवानां नाम्ना त्वमेव तर्पणीय इत्यर्थः॥ 5-202-79 आकाश इति लुप्तविभक्तिकम्। स्वाद्यं रसः। ब्रह्म वेदाः यज्ञाश्च। स्थास्नु स्थावरम्। चरिष्णु जङ्गमम्॥ 5-202-80 अद्भ्याः समुद्रेभ्यः स्तोकाः वर्षबिन्दवः। संक्षये प्लये एकार्णवे॥ 5-202-83 अभिष्टुतो यानकार्षीरिह त्वम् इति क.ख.पाठः॥ 5-202-84 ऋषिणा नारायणेन संस्तुतः॥ 5-202-87 वियोनिजाः सिंहव्याघ्रादयः। नागान विश्वे विश्वयोनयः इति क.ख.पाठः॥ 5-202-88 त्रसेन जङ्गमेन॥ 5-202-89 गत्वा प्राप्य॥ 5-202-92 पूर्वदेवानां ब्रह्मविष्णुरुद्राणां मध्ये एतौ विष्णुरूपिणावृषी नरनारायणौ परमोपचितावत्यन्ततपः सम्पन्नौ॥ 5-202-94 देववत् नारायणवत्। अवाकर्षः अवमतं कृशं कृतवानस्यात्मानं शीरम्॥ 5-202-95 शुभ्रं दीप्तितम्। शुभभौर्वं नवं कृत्वेति क.ख.ग.पाठः॥ 5-202-98 आत्मयोगात्तमीशानं शास्त्रयोगाच्च शाश्वतमिति क.ख.ग.पाठः॥ 5-202-103 महर्षये व्यासाय॥ 5-202-202 द्व्यधिकद्विशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|